Siddhanta Journal of Knowledge SystemsVol. 1, Issue 1 | October 2026 | pp. 9–14

Research Article

A Discourse on the Principles of Creation in Vedic and Modern Science

Vaidikādhunikavijñānayoḥ Sṛṣṭitattvavimarśaḥ

वैदिकाधुनिकविज्ञानयोः सृष्टितत्त्वविमर्शः

Dr. Sachin Dwivedi

Assistant Professor (Darshan), Shri Bhagwandas Aadarsh Sanskrit Mahavidyalay, Haridwar

Abstract

जिज्ञासात्मकमिदं ब्रह्माण्डीयसृष्टिविज्ञानमासृष्टेरेव मानवमत्यामौत्सुक्यभावं समुत्पादयति। नानाविधवैचित्रपूर्णैस्तथ्यैस्तत्त्वैश्च परिपूर्णञ्जगदिदं मानवचित्तं दार्शनिकतां गमयति। प्रवर्तमानशैक्षिकानुसन्धानादिदर्शनानुगुनमिदं सृष्टिविज्ञानं द्विधा प्रकल्पयितुं शक्यम्। तत्राद्यं वैदिकवाङ्मयानुसारं सृष्टिचिन्तनमपरञ्चाधुनिकविज्ञानागुनं पारमाणविकाद्यचेतनवस्तुभिस्सृष्टिविज्ञानम्। तत्र चैतन्यात्मिकेयं सृष्टिरिति वेदः। पदार्थगतशक्त्याधारिता सृष्टिरित्याधुनिकाः। चैतन्यमात्रं सद्ब्रह्मैव नित्यबुद्धमुक्तस्वभावगतञ्जगत्कारणमपरत्र सघनमचेतनमुष्णमेकं "सिङ्गुलैरिटी"[1]-नामधेयन्तत्त्वं जगज्जन्मकारणम्। सृष्टिस्थितिलयाकारा वैदिकी सृष्टिः। समाकारा रैखिकसृष्टिरिति वैज्ञानिकाः। सदसद्भ्यामनिर्वचनीया सृष्टिर्वेदादिष्वाख्याता[2]। परिमापगतेयमिति वैज्ञानिकाः। प्रकृतिपुरुषयोः कार्यकारणगतसङ्घातः संसारः कर्मसिद्धान्तमनुसृत्य प्रवर्तते इति दर्शनम्। भौतिकमेव नियममनुसरति संसारः इति विज्ञानम्। श्रुतिपरम्परया वैदिकसृष्टिराचक्ष्यते। प्रायोगिकपरीक्षणैराधुनिकसृष्टिरःविकसिता। आत्मावबोधप्रधाना वैदिकी सृष्टिः। वस्तुनिष्ठविज्ञानमेवाधुनिकसिद्धान्तः। वैदिकदृष्ट्या सृष्टिर्नैतिकतया अविनाभावेन सम्बद्धा विज्ञानदृष्ट्या तु सृष्टिविचारः निरपेक्षः। वैदिकं सृष्टिविज्ञानं दर्शनाध्यात्मयोः सह संयुक्तं दृश्यते विज्ञानं तु केवलं भौतिकं अनुशासनमाचष्टे। वैदिकग्रन्थेषु सृष्टिस्सूक्ष्मात्स्थूलं प्रति प्रवहमानः क्रमविशेषः इति प्रतिपाद्यते विज्ञानदृष्ट्या तु सा ऊर्जातः पदार्थपरिणामरूपेण व्याख्यायते। वैदिकचिन्तने सृष्टेस्स्रष्ट्रा सहाभेदसम्भावना स्वीक्रियते विज्ञानदृष्ट्या तु स्रष्टुः सृष्टेश्च स्पष्टं पृथक्करणं परिलक्ष्यते। वैदिकसृष्टिविचारः प्रतीकात्मकया भाषया निरूप्यते विज्ञानदृष्ट्या तु सृष्टिः गणितीयभाषया अभिव्यज्यते। वैदिकपरम्परायां सृष्टिज्ञानमनुभूतिनिष्ठं विज्ञानदृष्ट्या तु तत्सिद्धान्तनिष्ठं भवति। वैदिकग्रन्थेषु सृष्टिः बहुस्तरीया इति स्वीकृता, वैज्ञानिकदृष्ट्या तु सा केवलं भौतिकब्रह्माण्डपर्यन्तं सीमिता दृश्यते। वैदिकदृष्ट्या सृष्टिः नित्यं परिवर्तनशीला विज्ञानदृष्ट्या तु सा स्वाभाविकप्रक्रिया एव मन्यते। वैदिकसृष्टिविज्ञानेन मानवीयचेतनामुररीकृत्य सृष्टिः दृश्यते विज्ञाने मानवः केवलं निरीक्षकः। वैदिकपरम्परायां सृष्टिज्ञानस्य परमोद्देश्यः मोक्षः इति निगद्यते, विज्ञानदृष्ट्या तु ज्ञानविस्तरः एव लक्ष्यम्। वैदिकं सृष्टिविज्ञानं आध्यात्मिकसत्यमन्वेषति विज्ञानं तु भौतिकसत्यस्यानुसन्धानमेव। एवं विचारेषु प्रवर्तितेषु प्रस्तावितेऽस्मिन् शोधपत्रे भारतीयज्ञानपरम्परां परिप्रेक्ष्योभयविधसृष्टिरहस्योद्घाटनं तत्ततद्गततत्त्विश्लेषणं सचेताचेततत्त्वविवेचनमित्यादिविषयाः अत्यन्तं प्रासङ्गिकाः इति विवेच्य वैदिकाधुनिनिकविज्ञानयोस्सृष्टि विज्ञानं विमर्श्यते।

Keywordsसृष्टिविज्ञानम्; आधुनिकविज्ञानम्; वैदिकसृष्टिः; सूक्तम्; विज्ञानवादः

प्रस्तावना -

सृष्ट्युद्गमः तदीयसंरचना तन्नियन्तृत्वमित्येतेषु विषयेषु जिज्ञासा मानवानां शाश्वतचिन्तनस्य मूलम्। आसृष्टेः मानवैः परितो विद्यमानं वृहद्ब्रह्माण्डं ज्ञातुं विजिगिषा बोभूयते।सन्दर्भेऽस्मिन् विविधाः सभ्यताः परम्पराश्च स्वस्वदार्शनिकसिद्धान्तैस्सृष्टिविचारं विचकसुः। भारतीयज्ञानपरम्परायां सृष्टिविज्ञानं न केवलं भौतिकजगतः उत्पत्तेर्विवेचनमात्रमपितु दार्शनिकाध्यात्मिकनैतिकजीवनस्योत्कर्षसेतुः।

वैदिकसाहित्ये जन्मस्थितिलयाकारा चेतनरूपा सृष्टिः विशिष्टा प्रक्रिया। वैदिकसूक्तेषूपनिषत्सु ब्राह्मणग्रन्थेषु च सृष्टेरुत्पत्तिस्थितिलयाः दार्शनिकप्रतीकात्मकरीत्या विवेच्यते यत्र सृष्टिः कस्यचित् एकस्य निश्चितस्य आरम्भबिन्दोः सीमायां न बद्धा अपि तु नित्यप्रवाहशीलाऽपि रहस्यमयी इति स्वीक्रियते। अस्यां दृष्टौ सृष्टेः प्रयोजनं न केवलं जगत्सर्जनं किन्तु मानवात्मबोधाय परमसत्यस्य अनुभूतये उन्मुखीकरणमेव। पक्षान्तरे आधुनिकं वैज्ञानिकसृष्टिविज्ञानं ब्रह्माण्डीयोत्पत्तिन्तत्तत्संरचनाञ्चानुभवेन प्रायोगिकपरीक्षणैर्गाणितिकयप्रतिमानैश्चावगन्तुं प्रयतते। बिग्-बैङ्ग-ब्रह्माण्डविस्तारसिद्धान्तभौतिकनियमानाधारीकृत्य विज्ञानं ब्रह्माण्डीयवस्तुस्वभावनिष्ठं विश्लेषणं प्रस्तौति। वर्तमानवैश्विकबौद्धिकपरिदर्शनसन्दर्भे विशेषतो भारतीयज्ञानपरम्परायां वैदिकाधुनिकवैज्ञानिकसृष्टिविज्ञानयोश्च तुलनात्मकं विश्लेषणात्मकमध्ययनमिदं सुतरामेव प्रासङ्गिकतामेति । एतादृशं अध्ययनं न केवलं उभयोः परम्परयोः मूलदृष्टिं पद्धतिमुद्देश्यं च स्पष्टीकरोति अपि तु एतदपि दर्शयति यत्कथमेते द्वे ज्ञानपरम्परे स्वस्वस्तरे मानवान् ब्रह्माण्डबोधाय प्रेरयति। प्रस्तुतस्य शोधाध्ययनस्योद्देश्यं वैदिकवैज्ञानिकयोः सृष्टिविचारयोः संवादस्थापना परस्परभेदानां सम्भाव्यसामञ्जस्ययोः रेखाङ्कनम्।

वैदिकसृष्टिविज्ञानावधारणा -

वैदिकसाहित्ये नानाविधानां सूक्तानां उपनिषदां सन्दर्भेषु सृष्टेः बहुविधाः दार्शनिकासंकेताः प्रस्फुटन्ति। ऋग्वेदस्य विविधेषु सूक्तेषु सृष्टेरुत्पत्तिः रहस्यमयी अनिर्वचनीया चेति प्रतिपाद्यते यत्र कार्यकारणभावस्य प्रश्नप्रतिवचनात्मकं विवेचनं प्रस्तुयते। नासदीयसूक्ते यथा गम्भीरं तत्त्वचिन्तनं निरूपितं दृश्यते। हिरण्यगर्भसूक्ते तु सृष्टेः मूलकारणरूपेण कस्यचित् आद्यतत्त्वस्य परिकल्पना विधीयते। उपनिषदिकवाङ्मये सृष्टिः ब्रह्मणः एव निष्पन्ना ब्रह्मणि एव विलीयमाना इति प्रतिपाद्यते। पञ्चमहाभूतसिद्धान्तेन सृष्टेः संरचना सूक्ष्मात्स्थूलं प्रति क्रमशः विकसितेति वर्ण्यते।

वैदिकसृष्टिविज्ञाने नासदीयसूक्तं Big Bang Theory च -

सूक्तमिदं ब्रह्माण्डसृष्टिविषयकधारणायाः उद्गमस्थानम्। सनातनतदितरसृष्टितत्त्वस्य मूलभेदः चेतनायामेव निहितो वर्तते। भारतीयदार्शनिकसिद्धान्तमते सृष्टिः चेतनाच्चेतनस्य एव विस्तारः। चेतनायाः सूक्ष्मतमात्स्तरात् स्थूलस्य अभिव्यक्तिरित्यत्र मन्यते। अन्यत्र तु पाश्चात्त्यदृष्ट्या चेतना आकस्मिकरूपेण उत्पद्यते, जडाज्जडस्य एव विस्तारः सृष्टिरिति तत्र स्वीक्रियते। सूक्तेऽस्मिन् सृष्टेः यः क्रमः यच्च विकासस्य वर्णनं दृश्यते सृष्टेश्चेतनामयत्वं तत्र स्पष्टतया स्फुटं भवति। विश्वस्य श्रेष्ठतमाचारसंहिता, समाजशास्त्रस्य विधिशास्त्रस्य च ग्रन्थरूपेण प्रसिद्धायां मनुस्मृतौ स्मृतिकर्ता मनुः स्वस्य रचनायाः आरम्भं नासदीयसूक्ते वर्णितस्य प्रलयकालीनावस्थायाः निरूपणेनैव चकार।

आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम्।

अप्रतर्क्यम् अविज्ञेयम् प्रसुप्तम् इव सर्वतः॥[3][3]

वेदानामनुवादकर्तृषु मैक्स्-मूलर्, होरेस् हर्मन् विल्सन्, आर्–टी–एच् ग्रिफिथ्, ए–ए–मैक्डोनेल्, ए–एल्–बाशम्, वेण्डी–डोनिगर्, जोएल्–ई–बेरेटन्, तुलसीराम इत्यादिभिरपि सूक्तमिदमनूदितञ्चकार।

इह प्रलयावस्था एव निरूप्यते। अस्यां प्रलयदशायां सकलं नामरूपात्मकं जगत्स्वोपादानकारणे एव पूर्णतया विलीयते। यथा अतीव सूक्ष्मे बीजे महीरुहस्य सर्वावयवात्मकं रूपं बीजरूपेण निहितं भवति तथैव समग्रसृष्टेरस्याः बीजभावेन स्वकारणे अव्यक्तरूपेण अवस्थानं भवति। स एव कारणभूतः तत्त्वतः परमात्मा प्रत्यगात्मा परब्रह्म इत्यादिभिश्शब्दैः अभिधीयते। तत् मूलकारणं न आकाशकुसुमवदत्यन्तासद्रूपं अत्यन्तासतः अर्थक्रियाकारकस्य व्यवहारयोग्यस्य च कस्यचित् वस्तुनः उत्पत्तिः कदाचिदप्यसम्भवात्। अयं तु जगदाख्यः प्रपञ्चः अर्थक्रियाकारकत्वेन व्यवहारगोचरो दृश्यते; अतः तस्योत्पत्तिः अलीकान्न युक्ता। न च तत्कारणभूतं तत्त्वं वर्तमानप्रत्यक्षदृश्यमानजगत्सदृशं व्यवहारिकसत्तासम्पन्नं प्रलयशब्दस्य निरर्थकत्वप्रसक्तेः। तस्मात् सदसद्विलक्षणा ब्रह्मणि अधिष्ठिता या माया तस्याः सत्तैव अत्र विवक्षिताऽस्ति।

नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत्।

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम्॥[4][4]

आधुनिकखगोलभौतिकविद्यानुसारं ब्रह्माण्डस्योत्पत्तिः अत्यन्तं सघनादुष्णात्सूक्ष्मात् आद्यावस्थाविशेषात् अभवद्यत् “महाविस्फोटः” (Big Bang) इति आचक्ष्यते। एतत्सिद्धान्तानुसारं कालाकाशपदार्थाश्च एकस्मिन्नेव क्षणे सहैव उद्भूताः ततश्च ब्रह्माण्डस्य नित्यं प्रवर्धमानो विस्तारः आरब्धः। सा उत्पत्तिः न कस्यचित् चेतनस्रष्टुः न च उद्देश्ययुक्तसत्तायाः कारणेन जाताऽस्ति, अपितु भौतिकनियमाधीनां स्वाभाविकप्रक्रियाणां परिणामरूपेण एव वैज्ञानिकैः परिगण्यते। Stephen Hawking – वर्यः अस्मिन् विषये उवाद - “The universe has not existed forever but had a beginning in time.”

“The universe was once so hot that nuclear reactions could occur everywhere.” इति Steven Weinberg वर्याः।

नासदीयसूक्तमहाविस्फोटसिद्धान्तौ (Big Bang Theory) उभावपि सृष्ट्युत्पत्तिविषये सामान्यातीताद्यावस्थास्वीकारेण मूलभूतं सामञ्जस्यं परिलक्ष्यते। नासदीयसूक्ते निरूपिता या अव्यक्ता तमोमयी अनिर्वचनीया च अवस्था सा वैज्ञानिकदृष्ट्या महाविस्फोटात्पूर्वावस्थायां विद्यमानायाः अत्यन्तसघनोष्णदशासमा एव मन्यते। द्वे अपि परम्परे सृष्टेः आदिमरहस्यमयबौद्धिकान्वेषणस्य विषयं च प्रस्फुटयतः। किन्तु यत्र महाविस्फोटसिद्धान्तः सृष्ट्युत्पत्तिं सर्वथा भौतिकनियमैः ऊर्जातत्त्वैः, गणितीयप्रतिमानैश्च कार्यकारणप्रक्रियारूपेण प्रतिपादयति तत्र नासदीयसूक्तं सृष्टेः मूलाधारे चेतनतत्त्वस्य वा परमसत्तायाः सम्भावनां अनिर्णीतरूपेण एव प्रस्तौति। विज्ञानं निश्चियपूर्वकं प्रेक्षणाधारितनिष्कर्षान् उपस्थापयति। नासदीयसूक्तं तु संशयप्रश्नैः सह दार्शनिकविनयभावं स्वीकरोति।

वैदिकसृष्टिविज्ञाने हिरण्यगर्भसूक्तमाधुनिकवैज्ञानिकमतञ्च -

चकासमानस्यास्य जगतः निश्चयरूपेणैको विद्यते भर्ता कर्ता पतिः कश्चिद्यः हिरण्यगर्भेणाख्यातः ऋषिभिर्वैदिककाले। हिरण्यगर्भः प्रजापतिः समवर्तताग्रे जगतः अपि पूर्वं समस्तभूतानां स्रष्टा। अर्थात् विद्यमानसर्वविधपदार्थानामेक एव पतिः परमात्मा इश्वराख्यो वर्तते।

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।

स दाधार पृथिवीं दयामुतेमां कस्मै देवाय हविषा विधेम ॥[5][5]

स एव समग्रां पृथ्वीं द्युलोकञ्च दाधार। इह हिरण्यशब्देन सर्वविधभौतिकपदार्था अवबुध्यन्ते। तस्सपतिः हिरण्यगर्भः प्रजापतिः गतव्यक्तरौस्वरूपः ऊर्जारूपी अव्यक्तब्रह्मण एव अविच्छेद्यांशः। ईशावास्योपनिषदि पञ्चदशमन्त्रे अस्य विशिष्टव्याख्यानं लभ्यते।

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥[6][6]

तत्रोच्यते यत् हिरण्मयेन पात्रेण सद्ब्रह्म आवृतमर्थात् भौतिकजागतिकज्ञानेनैव सत्यं विज्ञातुं शक्यम्।

पक्षान्तरे आधुनिकविज्ञानमते अचेतनभूतया भौतिकप्रक्रियया (Nucleosynthesis Theory) एव जगदुत्पन्नमिति मन्यते। खगोलभौतिकविज्ञानानमतानुसारं ब्रह्माण्डस्य आद्यावस्थायां पदार्थानां निर्माणः केन्द्रीयभौतिकप्रक्रियाभिः एव अभवत्। अयं सिद्धान्तः “महाविस्फोटनाभिकसंश्लेषण-सिद्धान्तः” (Big Bang Nucleosynthesis) इति नाम्ना अभिधीयते। एतदनुसारं महाविस्फोटानन्तरं प्रायः आद्यनिमेषत्रयाद्विंशतिपनिमेषपर्यन्तं ब्रह्माण्डस्य तापः अत्यन्तोच्चस्तरं गतः येन केवलं हाइड्रोजन-हीलियम-लिथियम-इत्यादीनां लघुतमानां रासायनिकतत्त्वानां एव उत्पत्तिर्बभूव। अस्यां प्रक्रियायां न कस्यचित् चेतनतत्त्वस्य न च उद्देश्ययुक्तकारणस्य अपेक्षा स्वीकृता अपितु सा सर्वथा ऊर्जा-ताप-घनत्वरूपभौतिकस्थितीनां स्वाभाविकपरिणामरूपेण एव बभूव इति वैज्ञानिकैः परिगण्यते।[7] प्रसङ्गेऽस्मिन् प्रसिद्धभौतिकविद् स्टीवन-वाइनबर्गः (Steven Weinberg) स्वकीयसुप्रसिद्धग्रन्थे The First Three Minutes उल्लिखति - “The early universe was hot enough to bring nuclear reactions to completion, producing hydrogen and helium in definite proportions.”[8]

Introduction to Cosmology इति खगोलभौतिकीयग्रन्थे बार्बरा-राइडेन स्वमतं प्रतिपादयन्नुल्लिखति - “Big Bang nucleosynthesis is one of the strongest pieces of evidence for the hot Big Bang model.”

अपत्र Alan Guth- वर्याणां प्रस्फीटनसिद्धान्तानुसारं ब्रह्माण्डं स्वास्याद्यक्षणेषु अतीव अल्पकाले एव अत्यन्ततीव्रं गुणोत्तरविस्तारम् (exponential expansion) अन्वभवत्। स च विस्तारः न कस्यचित् चेतनसत्तायाः न च सृजनात्मिकायाः इच्छायाः परिणामः अपितु एकस्य काल्पनिकस्य ऊर्जा-क्षेत्रस्य एव यत् “इन्फ्लेटॉन-क्षेत्रम्” (Inflaton Field) इति अभिधीयते।

“Inflation was driven by a form of energy that had a repulsive gravitational effect.”[9][9]

“The inflationary model explains why the universe is so large and so uniform without invoking any divine intervention.”[10][10]

वैशेषिकदरशनोपनिषदोः सृष्ट्युद्गमव्याख्यानम् -

“तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः।वायोरग्निः। अग्नेरापः। अद्‌भ्यः पृथिवी।पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्‌। अन्नात्पुरुषः।स वा एष पुरुषोऽन्न्नरसमयः।तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा।तदप्येष श्लोको भवति।”

उपनिषद्दृष्ट्या समालोच्यते चेत् समग्रसृष्टेः मूलतत्त्वं ब्रह्मैव इति निश्चीयते। तदेव ब्रह्म सूक्ष्मादपि सूक्ष्मतरमव्यक्तन्निराकारं च। तस्मात् एव सूक्ष्मादव्यक्तस्वरूपात् क्रमशः स्थूलभूतं व्यक्तं जगत् सृज्यते। उपनिषत्सु सृष्टिप्रक्रिया सूक्ष्मात्स्थूलं स्थूलात् च स्थूलतरं प्रति प्रवाहरूपेण प्रतिपादिता दृश्यते। इयमेव प्रक्रिया आधुनिकविज्ञानमतमपि अंशतः प्रतिष्ठापयति यतो हि विज्ञानमपि दृश्यपदार्थानामुत्पत्तिं सूक्ष्मावस्थाभ्यः आमिनोति। अस्मिन् परिप्रेक्ष्ये यदि वैशेषिकदर्शनस्य विशेषेण अवलोकनं क्रियते तर्हि एतत्परिलक्ष्यते यत् कणादप्रणीतपरमाणुसिद्धान्तानुसारं जगतः मूलसत्ता परमाणुरेव अस्ति। स च परमाणुः अत्यन्तसूक्ष्मः नित्यः अविनाशी, इन्द्रियगोचरातीतश्च। तेषां परमाणूनां संयोगविशेषैः एव दृश्यस्य जगतः नानाविधसंरचनाः उत्पद्यन्ते। पृथिव्यप्तेजोवायवः इति एतेषां चतुर्णां महाभूतानां स्वस्वपरमाणवः अभ्युपगम्यन्ते। आकाशं तु परमाणुविहीनं नित्यद्रव्यं इति वैशेषिकैः स्वीकृतम्। सृष्टिप्रक्रियायामादौ समानजातीयौ द्वयोः परमाण्वोः परस्परसंयोगेन द्व्यणुकं जन्यते। ततश्च त्रयाणां द्व्यणुकानां संयोगात् त्र्यणुकं निष्पद्यते यत्प्रथममेव दृश्यस्थूलपदार्थरूपेण अभिव्यज्यते। प्रलयावस्थायां सर्वे संयोगाः नश्यन्ति, दृश्यं च स्थूलं पदार्थजातं पुनः परमाणुरूपेण एव विलीयन्ते। पुनः सृष्टिकाले त एव परमाणवः कर्मानुसारं नूतनसंयोगैः जगतः नानाविधां रचनां गच्छन्ति।

निष्कर्षः -

सृष्टिविज्ञानं प्रतिपादयन्तौ आधुनिकविज्ञानवैदिकसिद्धान्तौ जगन्मूलं प्रतिपादयिषू द्वावपि युक्तिपूर्णौ भिन्नौ मार्गौ वर्तेते। राजन्ते तत्र चेतनाचेतनविषयमाधारीकृत्य मतवैविध्यं। किन्तु सृष्ट्युद्गमरीत्यां बोभूयन्ते तत्र नैकानि साम्यमतानि। आधुनिकवैज्ञानिकसृष्टिविज्ञानं ब्रह्माण्डीयोत्पत्तिं प्रायोगिकपरीक्षणैरवगन्तुं प्रवर्तते। पक्षान्तरे वैदिकसाहित्ये जन्मस्थितिलयाकारा चेतनरूपा सृष्टिः तदीयमूलकारणे ब्रह्मण्येव न्यस्ता। मतवैविध्ये सत्यपि यन्मतम्महत्साम्यं भतजे तद्भवति चेतनं वा अचेतनं वा सृष्टौ तु मूलमेकं तत्त्वं निहितमस्त्येव इति शम्।

।। ग्रन्थसन्दर्भसूची ।।

क्र. संख्या

ग्रन्थः

ग्रन्थकर्ता

1.

ईशादि नौ उपनिषत् शाङ्करभाष्य

गीता प्रेस

2.

ऋग्वेदः सायणभाष्यसहितः

ई-पुस्तकालयः

3.

हिरण्यगर्भसूक्तम्

ई-पुस्तकालयः

4.

उपनिषतद्भाष्यम्

अद्वैतसारदा

5.

A Brief History of Time, Bantam Books

Stephen Hawking

6.

The First Three Minutes, Basic Books

Steven Weinberg

7.

Introduction to Cosmology, Cambridge University Press

Barbara Ryden

  1. Big Bang Theory ↑

  2. नासदीयसूक्तम् ↑

  3. मनुस्मृतिः१.५ ↑

  4. ऋग्वेदः.१०.१२९.१२ ↑

  5. हिरण्यगर्भसूक्तम्.१ ↑

  6. इशोपनिषत्.15 ↑

  7. Steven Weinberg, The First Three Minutes, Basic Books

    Barbara Ryden, Introduction to Cosmology, Cambridge University Press ↑

  8. Steven Weinberg- First Three Minutes ↑

  9. Alen Guth ↑

  10. Stephen Hawking ↑

Siddhanta Journal of Knowledge Systems | Vol. 1, Issue 1 | October 2026 | pp. 9–14
Published under CC BY-NC-ND 4.0.